Sutra: | वातकलाकलाज्ञानमधितृत्य परस्परमतानि जिज्ञासमाना: समुपविश्य महर्षय: पप्रच्छुरन्योऽन्यं--किंगुणो वायु: किमस्य प्रकोपस्य उपशमनानि वाऽस्य कानि कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरत:बहि: शरीरेभ्यो वेति॥ |