Sutra: | शरीरप्रदोषप्रकोपे खलुशरीरमेवाश्रित्य प्रायशास्त्रिविधमौषधमिच्छन्ति--अन्त: परिमार्जनंबहि: परिमार्जनं शस्त्रप्रणिधानंचेति तत्रान्त: परिमार्जनं यदन्त: शरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि यत्पुनर्बहि: स्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्वहि: परिमार्जनं शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति॥ |