Sutra: | पीतवन्तं तु खल्वेनं मुहूर्तमनुकांक्षेत तस्य यदा जानीयात् स्वेदप्रादुर्भावेणदोषं प्रविलयनमापद्यमानं लोमहर्षेण च स्थानेभ्यः प्रचलितं कुक्षिसमाध्मापनेन च कुक्षिमनुगतं हृल्लासास्यस्त्रवणाभ्यामपि चोर्ध्वमुखीभूतम् अथास्मै जानुसममसंबाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदीपधानं सोपाश्रयमासनमुपवेष्टुं प्रयच्छेत् प्रतिग्रहांश्चोपचारयेत् ललाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः प्रयतेरन् । |