वेदांत-अनुक्रमणी विस्तार-पृष्ठ
(Vedanta Search)
अज : (ऋग्वेद)
>> संहिता पाठ=अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् । निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
>> मण्डलक्रमांक/अष्टक.अध्याय.वर्ग.मन्त्रसंख्या=१.११७.१५/१.८.१५.५
>> स्वरयुक्त संहिता पाठ=अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह॑: समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥
>> पदपाठ=अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् । निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
>> ऋषि=कक्षीवान्
>> देवता=अश्विनौ
>> छन्द=विराट्त्रिष्टुप्
>> स्वर=धैवतः

Search External resources