अज : (ऋग्वेद) >> संहिता पाठ=परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः । विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥ >> मण्डलक्रमांक/अष्टक.अध्याय.वर्ग.मन्त्रसंख्या=१.११६.२०/१.८.११.५ >> स्वरयुक्त संहिता पाठ=परि॑विष्टं जाहु॒षं वि॒श्वत॑: सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥ >> पदपाठ=परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥ >> ऋषि=कक्षीवान् >> देवता=अश्विनौ >> छन्द=निचृत्त्रिष्टुप् >> स्वर=धैवतः
|