वेदांत-अनुक्रमणी विस्तार-पृष्ठ
(Vedanta Search)
अज : (ऋग्वेद)
>> संहिता पाठ=उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य । यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥
>> मण्डलक्रमांक/अष्टक.अध्याय.वर्ग.मन्त्रसंख्या=१.११३.९/१.८.२.४
>> स्वरयुक्त संहिता पाठ=उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥
>> पदपाठ=उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य । यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥
>> ऋषि=कुत्सः आङ्गिरसः
>> देवता=उषाः
>> छन्द=निचृत्त्रिष्टुप्
>> स्वर=धैवतः

Search External resources