वेदांत-अनुक्रमणी विस्तार-पृष्ठ
(Vedanta Search)
अज : (ऋग्वेद)
>> संहिता पाठ=क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै । विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥
>> मण्डलक्रमांक/अष्टक.अध्याय.वर्ग.मन्त्रसंख्या=१.११३.६/१.८.२.१
>> स्वरयुक्त संहिता पाठ=क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
>> पदपाठ=क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै । विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥
>> ऋषि=कुत्सः आङ्गिरसः
>> देवता=उषाः
>> छन्द=त्रिष्टुप्
>> स्वर=धैवतः

Search External resources