सन्देशः युगाब्दः ५९०७ कार्त्तिकमासः अक्तोबर्-२००५ अपरा यशोधरा डा. गोपबन्धुमिश्रः कथा प्रवाचकः, संस्कृतविभागः काशीहिन्दूविश्र्वविद्यालयः, वाराणासी "किं बहिरेव स्थास्यसि ? अन्तः आगच्छा, अखाआश ।" वसुधायाः उकत्या अवधान् मे भग्नम् । अतिथिप्रकोष्ठे माम् उपवेश्य 'एषा अहम् आगच्छामि ' इइत् उक्त्वा अन्तः प्राविशत् वसुधा । गते सोमवासरे रेलस्थानके अक्स्मात् वसुधायाः मेलनं जातम् आसीत् । यस्माद् रेलयानाद् अहम् अवतरामि स्म तेनैव गच्छन्तं पुत्रंअ आप्रष्टुं तत्र उपस्थिता आसीत् सा । विंशतिवर्षेभ्यः प्राक् समामे वर्गे उपविश्य आवं सहाध्ययनं कुर्वन्तौः आस्व ।दर्शनमात्रेण एव आवाभ्यां परस्परपरिचयं प्राप्तः । सा स्वपुत्रस्य ' आलोकस्य परिचयं कारितवती । आलोकः ग्वालियर्नगरे चिकित्साशास्त्रम् अधिते । रेलयानं प्रस्थितम् । वसुधा दृष्टाः तस्याः वैयक्तिकजीवनेविषये इत्तरान् प्रश्र्नान् प्रष्टुकां मं सा उक्तवति - " रेलस्थानके कियान् वा संवादः स्यात् आकाश ? मया किझ्चित् त्वरया कुत्रचित् गन्तव्यम् अस्ति, मन्ये त्वरया कुत्रचित् गन्तव्यम् अस्ति ,मन्ये त्वयापि तथा र्व । मम आवासः बहादुरपुरवीथ्यां गृहसंख्या क ३७/४५ अस्ति लब्धेऽवसरे आगच्छ, कुटुम्बिन्या सुतादिभिश्र्च सह ।" "अहमस्मिन् नगरे सद्य ः स्थानपिवर्तनद्वारा आगतः ,एकाकि एवाऽस्मि । अतः एकाकि एव आगमिष्यामि " इति उक्त्तवान् आसम्।तस्मात् दिनात् अद्यह रविवासरे एव अवसरं लब्ध्वा आगतोऽस्मि । " आकाश कथमसि त्वम् ? पूर्वं बहुकृशकाय ः आसीः इदानीं स्वस्थः इव कक्ष्येसे " -आत्मना सह आनीतानि मिष्टानि सुपिष्टकानि चायं च पात्राद् आदाय उत्पीठिकायां स्थापयन्ती पृष्टवती वसुधा । वर्गे सर्वदा प्रथमं स्थानम् अधिकुर्वती प्रगल्भवाग् वसुधा इदानीमतीव मितभाषिणी इव प्रतीयते स्म । " तव पुत्रं तु अहं दृष्टवान् । पतिः किं करोति ? सः कुत्र गतवान् ? किं नगरे अस्ति सः ? महाविद्यालयपठनकाले एव तव विवाहः अभवत् इति अस्माभिः ग्ङातम् । जानासि वसुधे ? त्वं प्रस्थितेति कारणेन एव अहं वर्गे प्रथमं स्थानं लब्धवान् । त्वयि स्थितायां तु तत् अशक्यम् आसीत् खु ?" किञ्चित् विहस्य उक्तवान् अहम् । "चायं स्वीकुरु आकाश, आहं न पिबामि' - वसुधायाः वचनम् आदेशविशेषं मत्वा अहं यन्त्रवत् चायपात्रम् उन्नीतवान् ।हुँ हुँ तत् मिश्टामपि स्वीकुरु।" अधिकार्णी शिक्षिकेव प्रतीयते स्म वसुधा । "स्वविषये तु त्वं किमपि उक्तवनेव नहि । कदा कस्मिन् विभागे अत्र तव नियुक्तिः ? आवासः कुत्र ? कुटुम्बजनाः कुत्र इदानीम् ? कदा आगमिष्यन्ति ते ? " इति विविधान् प्रश्र्नान् पृष्टवती सा । युगपत् प्राप्तैः तैः अहं काञ्चित् असहञ्सताम् अनुगतवान् । अत्र आयकरविभागे अधिकारिरुपेण गते मासे एव आगतः अस्मि । इतः पूर्वं लखनऊनगरे आसम् । कन्या द्वादशे च वर्गे तत्र पठतः । अन्तिमं वर्षं तयोः । अतः तत्रैव परीक्षां यावत् मात्रा सह वसतः । परीक्षानन्तरम् अत्र आगमिष्यन्ति सर्वे । अहमेव यथावसरं लखनऊं गच्छामि । तव किं स आलोकः एक एव पुत्रः ?" 'आम् '-एकेनैव शब्देन् उत्तरं दत्व वसुधा क्रमशः अहस्यमयि इव जाता । किं वा स्याद् र्हस्यम् एतस्याः जीवने ? सुन्दरि शिक्षिता एषा । अतीव मेधाविनी अपि । भाग्यवतः जजस्य खलु एतादृशी काचित् गृहिणी भवति । पट्ःअनकालेऽपि एषा इतरसहपाठिनीनां कृते ईर्ष्यायाः विषयः आसीद् एव ।' "आकाश त्वं यशोधरायाः कथां स्मर्सि ? क्रोडे बालः राहुलः । एकस्यां रात्रौ गौतमस्य प्रव्रज्या; स्मरसि खलु ?" अकस्मात् इतिहासस्य पुरातनानि पृष्ठानि स्मारयन्ति आसीत् वसुधा । 'किन्तु कथनत्र भगवतो बुध्दस्य कथा ? केनापि र्हस्येन भवितव्यमेव ।' "स्मरामि वसुधे । किन्तु अत्र ...?" मम वाक्यम् अश्रृण्वतीव सा कथनम् आरभत - "एषोऽपि तथैव गतवान् । पुत्रम् एतम् आलोकं मं च प्रित्यज्य । " " गतवान् नाम ? कुत्र ? केकारणेन /" विस्मौएन तावदेव वक्तुम् अपारयम् ।"कारणं तदेव - प्रव्रज्या । मम अध्ययनकाले एव मम विवाहः इति त्वं तु जानास्येव । वरः उच्चशिक्षितः ,विनयी,सर्वकारियोद्योगि च इति मत्वा पिता मम विवाअहं निर्वर्तितवान् । मम पुत्रोऽपि जातः । गृहे वृध्दा श्र्वश्रूरेव । पतिः स्वाभावतः किञ्चित् अन्तर्मुखी , बहु न भाषते । एतत् सर्व मम क्रमषः अभ्यासगतम् अभवत् । परन्तु क्रमशः सः अधिकाधिकं मौनम् आहरितवान् । सदा प्रायः ध्यानमग्ना स्थितिः तस्य । कि~ःचित् पृष्टे सति संसारोऽयम् असारः बन्धनाय एव ' इति दार्शनिकानि वाक्यानि वाक्यानि श्रावयति स्म सः ।" "कश्र्चित् मनश्र्चिकित्सकः किं न दृष्टः ? "'दृष्टः । सर्वा मनःस्थितिः सामान्या । तस्य आन्तः किमपि नित्यः कथदिव आसीत् । एअकस्यां रत्रौ स एव इतिहासः पुनरावृत्तः मम जीवने ।कमपि किमपि अनुक्त्वा गृहात् सः निर्गतः " इति वदन्ती दीर्घं निःश्र्वसितवती वसुधा । "अन्वेषणं तु कृतं स्यात् ?" "अन्वेषणं बहुधा कृतम् । कदाचित् वर्षानन्तरं कनखले साधूनां सङ्गमे सः दॄष्टः आसीत् इति केचन उक्तवन्तः । पुनस्तत्र अन्विष्टे सति ततोऽन्यत्र गतवान् आसित् सः । " "पुत्रः आलोकः ? " - पृष्टवान् अहं तस्य प्रतिपोषणविषये प्रष्टुम् इच्छन् ।"मम तु संसारः असारः नासित् खलु ? क्रोडे द्विवर्षीयः बालः आलोकः । वृध्दा च श्र्वश्रूः । पिता माम् उक्तवान् -मम निकटे निवसतु इति किन्तु मम कुटुम्बे एतौ द्वौ तु आस्ताम् । य्त्त्रे वयसि पुत्रं स्मृत्वा स्मृत्वा वृध्दा गतवर्षषट्कात् पूर्वं दिवं गता । " "आलोकस्य शिक्शणम् ? " अत्रैव कारितवती अहम् । श्र्व्श्र्वाः प्रयाणात् परम् एकस्मिन् विद्यालये शिक्षिकत्वम् आश्रितं मया । आलोकं तु त्वं दृष्टवान् एव । पितरि स्थितेऽपि पितृरहितः बालकः सः । मां परित्यज्य कुत्रापि गन्तु नेच्छति स्म सः । किन्तु चिकित्साप्रवेशपरिक्षायायाम् उत्तिर्णंः युवा किं मातृसेवायै गृहे बन्धव्य आसित् ?" - किञ्चित् हसन्ती इव उक्तवती वसुधा । एतावत् कष्टजातम् अनुभूयाऽपि वसुधा मुखे हासं न त्यक्तवती अस्ति । " तदा सर्वे नगरमिदम् आगमिष्यन्ति तदा तान् सर्वान् आदाय आगच्छ ,आकाश" मम विलम्बिताम् उपस्थितिं स्मारयन्तीव अवदत् वसुधा । अवश्यम् आगमिष्यामि ।इदानीं गन्तुकामोऽस्मि " उत्थाय प्रस्थितवान् अहम् । आमार्गं चिन्तयन् आसम् । 'गौतमस्य तपस्या एव बलीयसी ,उत यशोधरायाः ? गौतमः बुध्द्त्वम् आप्त्वा संसारे प्रतिष्ठितः सर्वविदितश्र्च अभवतः । किन्तु सा यशोधरा ? एषा वसुधा ? क्शणं क्षणं या संसारे तप आचरन्ती अस्ति ,तस्याः का प्रतिष्ठा स्यात् परिवारे ,स्वजनेषु,संसारे च ? को वा प्रतिष्ठां दद्यात् ? प्रतिष्ठायास्तु अन्या कथा ,प्रतिश्र्वसनम् एषा कथं जीवति, पुत्रं जीवयति, कथम् आत्मानं रक्षति इति चिन्तनमात्रेण एव मम शरिरे कश्र्चन कम्पः सहत्वं साक्षात्कृतमिव अनुभुतवान् अहम् । अकस्मात् मम मुखात् निःसृतम्- 'धन्या त्वं वसुधे तुभ्यं कोटिशः नमः ।' मम कारयानचालकः आकस्मात् मम ध्वनिं श्रुत्वा समम्भ्रं पृष्टवान् - 'किं स्वामिन् ? ' मया उक्तं _'नहि किञ्चित् । चलतु अग्रे । '