सन्देशः युगाब्दः ५१०७ ज्येष्ठमासः जून् २००५ सर्व भवन्तु सुखिनः बाल मोदिनी सर्वे भवन्तु सुखिनः सम्राजः अशोकस्य जन्मदिनम् आचार्यमाणम् आसीत् । तत्र अधीनाः नृपाः भागं गृहीतवन्तः आसन् । तदा राजा अशोकः एकाम् घोषणां कारितवान् -"अत्युत्तमस्य राज्ञः सम्माननं करिष्यते " इति । इति एकैकम् अपि नृपम् आहुय तत्तद्राज्यस्य विषयम् अपृच्छत् । तदा नृपाह् स्वीयस्य राज्यस्य प्रगतिम् उत्साहेन वर्णितवन्तः । उत्तराज्यस्य राजा गर्वेण अवदत् -"प्रभो अस्मिन् वर्षे मम राज्ये वृष्टिः , सस्यसमृध्दिश्र्च सम्यक् अस्ति । अतः जनेभ्यः अत्यधिकं करशुक्लं स्वीकर्तुं श्क्यते । एतस्मात् कारणात् मम राज्यस्य आयः त्रिगुणितः भविष्यति" इति। अनन्तरं दक्षिणराज्यस्य नृपः - मम राज्ये अहं कशुल्कस्य संग्रहणं सुवर्नरुपेण कृतवान् । अस्मिन् वर्षे मम राज्ये भाण्डारे द्विगुणितं सुवर्णं सङ्गृहीतम् अस्ति" इति अवदत् । पूर्वराज्यस्य राजा - " अस्माकं राज्यस्य सीमायाः समीपे केचन दुष्टाः जनेभ्यः कष्टं यच्छ्न्ति स्म । ते दुष्टाः मया सह कोऽपि युध्दं न करिष्यति" इत्युक्तवान् । पश्र्चिमराज्यस्य राजा गर्वेण -" मया कर्मकराणां वेतनं न्युनं कृतम् । जनुषु अधिकं करशुल्कम् आरोप्य अधिकं धनं सङ्गहितं । एतस्मात् मम आयः अधिकः जातः। अग्रिमे वर्षे अधिकम् आयं सम्पादयितुं कः मार्गः आश्रयणियः इति मन्त्रिनः प्रुष्टवान् अस्मि" इति उक्तवान् एवं एकैकोऽपि राजा 'मम राज्यस्य आयह् द्विगुणितः जातः,' त्रिगुणित्ः जातः इति अभिमानेन् अवदत् । सर्वेषां कथनं समाप्तम् । तदा मगधराजः अशोकं नमस्कृत्य विनयेन् अवदत् - "महाप्रभो कृपया अहं क्षन्तव्यः । मम धनागारे गतवर्षे यावत् आसित् तस्य अर्धम् अपि नास्ति इति वक्तुं लज्जाम् अनुभवामि" इति "तत् कथं सञ्जातम् ?" इति पृष्टम् अशोकेन । "गते वर्षे अस्माकम् आस्थान्स्य कर्मकेभ्यः कानिचन आनुकूल्यानि मया कल्पितानि । एतस्मात् कारणात् ते अधुना निष्कपटतया ,निष्टाया,परिश्र्मेन च कार्यं कुर्वन्ति प्रजाः पुत्राः इव । तदर्थ तासां कष्टं मा भूदिति धिया मया करशुल्कं न्यूनीकृतम् । यात्रिकेभ्यः वसतिशालानां निर्माणं कारितं , यत्र तेभ्यः निश्शुल्कभोजनव्यवस्था अपि अस्ति । चिकित्साल्याः निर्मिताः निश्शुल्कं चिकित्सं कर्तुं व्यवस्था च कल्पिता अस्ति । बहूनां कूपानां खननं कारयित्वा जलव्यवस्था उपकल्पिता । पाटशालाः आर्ब्ढा:, येन विद्यार्थिनाम् अध्ययनार्थं योग्या व्यवस्था स्यात् । एतस्मात् कारणात् जनेषु धर्मश्रध्दा प्रवृध्दा अस्ति मम दृष्टया धनात् ऎश्र्वर्यात् चापि प्रजानाम् हितमेव प्रमुखम् एतस्मात् कारणात् धनागारे धनं न्यूनं जातम्" इति विवरीतवान् मगधराजः ।एतत् श्रुत्वा सम्राट अशोकः आनन्दितः । स तं राजानं आलिङ्गय अवदत् - जनानां रक्षणार्थं , तेषां सुकदु:खानि अवगन्तुं च देवः अस्मभ्यम् एकम् उत्तमम् अवसरं कल्पितवान् अस्ति । नृपेण कथं शासनं करणीयं इति मगद्गराजः दर्शितवान् अस्ति । यदि प्रजाः सुखेन जीवन्ति तर्हि एव राज्यं संरक्षितं भवति अस्माकं जन्म सफलीक्रतुं किं करणीयं इति मगद्गराजः दर्शितवान् अस्ति । भवन्तः सर्वे एतं मार्गं अनुसृत्य धर्मं, राज्यं ,प्रजाः च रक्षन्तु " इति । ततः सः - "एष एव श्रेष्ठः राजा इति मया निर्णितम् अस्ति" इत्युक्त्वा स्वस्य धनागारात् लक्षं सुवर्णनाणकानि मगधराजाय उपायनीकृत्य तस्य सम्माननं कृतवान् ।