सङ्घे शक्तिः महिलारोप्यनाम्नि नगरे एकः विशालः वटवृक्षः आसीत् । एकदा तत्र एकः व्याधः आगच्छत् । सः वटवृक्षस्य अधः एकं जालं प्रासारयत् । तस्य जालस्योपरि ताण्डुलान् प्रक्षिप्य वृक्षात् किञ्चिद् दूरं गत्वा तूष्णीमुपाविशत् । तस्मिन्नेव काले चित्रग्रीवो नामः कपोतराजः स्वपरिवारेण सह तत्रागच्छत् । तस्य परिवारे सहस्रं कपोताः आसन् । सर्वे कपोताः प्रक्षिप्तान् तण्डुलान् भक्षियितुं नीचैः आगच्छन् जाले च बद्धाः अभवन् । बद्धकपोतान् दृष्ट्वा सः व्याधः अतीव प्रसन्नोऽभवत् जालस्य च समीपमागच्छत् । आयान्तं तं व्याधं दृष्ट्वा चित्रग्रीवः कपोतान् आदिशत् - "यूयम् सर्वे जालमादाय आकाशे उत्पतत् । "सर्वे कपोताः जालं नीत्वा आकाशे उदपतन् । भूमिस्थोऽपि सः व्याधः जालं नीत्वा गच्छतां तेषां कपोतानां पृष्ठतः अधावत् । उत्पतन्तः कपोताः शीघ्रम् अतिदूरमगच्छन् । परं व्याधः तेषामनुसरणे असमर्थोऽभवत् नैराश्याच्च न्यवर्तत् । तदा चित्रग्रीवेण कपोतान् प्रत्युक्तम् -"हिरण्यको नामः एकः मूषकः मम मित्रमस्ति । सः इदं जालं कर्तिष्यति ।" एतत् श्रुत्वा सर्वे जालबद्धाः कपोताः हिरण्यकस्य सकाश्मागच्छन् । हिरण्यकः तं जालमकृन्तत् । एवं सर्वे कपोताः मुक्ताः अभवन् । एतादृशी शक्तिः सङ्घे एव वर्तते । दीपावली दीपावली भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । दीपावली दीपावली भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । गङ्गा गङ्गा पर्वतराजहिमालयात् प्रभवति । एषा सर्वासु नदीषु श्रेष्ठा पवित्रतमा च अस्ति । गङ्गायाः उद्भवविषये एका कथा अस्ति । भगीरथः नाम नृपः पूर्वजानाम् उद्धाराय तपस्याम् अकरोत् तपस्यायाः च प्रभावेण सः गङ्गां स्वर्गात् धरायाम् अवतारयितुं समर्थः अभवत् । अतः एव इमां जनाः भागीरथी इति अपि कथयन्ति । ते अस्याः जलम् अत्यधिकं पावनं मन्यन्ते । बहवः श्रद्धालुजनाः प्रतिदिनम् अस्यां स्नानं कुर्वन्ति इमां च पूजयन्ति । अस्याः तटे हरिद्वार-ऋषिकेष-प्रयाग-वाराणसी-इत्यादीनि अनेकानि तीर्थस्थानानि सन्ति । प्रतिवर्षं पुण्येषु पर्वसु लक्षाणि जनाः एषु तीर्थस्थानेषु आगत्य अस्याः पावनजलेन स्नानं कृत्वा दुरितानि दूरीकुर्वन्ति । यन्त्रकाराः अस्याः जलमवरुद्ध्य सेतुं बद्ध्वा महाजलाषयेषु जलसञ्चयं कुर्वन्ति । एवं प्रकारेण सञ्चितं जलं क्षेत्राणां सिञ्चनाय उपयुज्यते । अनेन भूमिः उर्वरा भवति प्रभूतं च अन्नम् उत्पादयति । एवं गङ्गायाः जलं कृषेः महान्तम् उपकारं करोति । अस्याः जलेन विद्युत् अपि उत्पन्ना भवति । इयं दूरदर्शन-ध्वनिविक्षेपक-शीतकैत्यादीनि यन्त्राणि सञ्चालयति विविधानां च पण्यानां वस्तूनां निर्माणे सहायिका भवति । एवं गङ्गा लोकं परलोकं च उभयम् अपि उपकरोति । प्रहेलिकाः अपदो दूरगामी च साक्षरो न च पण्डितः । अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥१ ॥ वृक्षस्याग्रे फलं दृष्टं कलाग्रे वृक्ष एव च । अकारादि सकारान्तं यो जानाति स पण्डितः ॥२ ॥ नः तस्यादिः नः तस्यान्तो मध्ये तस्तस्य तिष्ठति । तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥३ ॥ वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः । त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥४ ॥ चक्री त्रिशूली न हरिर्न शंभुः महान्बलिष्ठो न च भीमसेनः । स्वच्छन्दचारी नृपतिर्न योगी सीतावियोगी न च रामचन्द्रः॥५ ॥ मूर्खः शृगालः कस्मिंश्चित् वने चण्डरवो नाम शृगालः वसति स्म । एकदा सः क्षुधापीडितः इतस्ततः विचरन् नगरान्तरे प्राविशत् । तत्र सः एकस्मिन् महापात्रे अपतत् । तत् पात्रं नीलीरसपूर्णम् आसीत् । यावत् सः तस्मात् पात्रात् बहिः आगच्छत् तावत् पूर्णरूपेण नीलवर्णः अभवत् । तस्याम् एव अवस्थायाम् सः चण्डरवः वनम् अव्रजत् । तत्र तथाविधम् तं चण्डरवम् अवलोक्य सर्वे सिंह-व्याघ्र-गज-वानर-प्रभृतयः पशवः भयभीताः पलायितुं च तत्पराः अभवन् । तेषां भयाकुलानां पशूनां समीपे गत्वा चण्डरवः अभणत्- "यूयम् मां दृष्ट्वा मा त्रस्यत । अहं वनदेवतया एतस्य वनस्य नृपतिरूपेण नियुक्तः अस्मि । सा माम् आदिशत् यत् एतस्मिन् वने पशूनां कः अपि नृपः न अस्ति । तत्र गत्वा त्वं तान् सर्वान् पशून् परिपालय । अत एव अहम् अत्र आगतः अस्मि । " एतत् श्रुत्वा सर्वे पशवः तम् चण्डरवम् प्रणम्य अकथयन्- "य आज्ञापयति देवः । " तत् अनन्तरम् तेन शृगालेन सिंह-व्याघ्र-गजआदयः अमात्यआदिरूपेण विविधकार्येषु नियुक्ताः । परम् अन्यैः आत्मीयैः शृगालैः सह सः आलापमात्रम् अपि न अकरोत् सर्वे च ते शृगालाः तेन दूरीकृताः । किञ्चित् कालानन्तरम् एकदा संध्यासमये चण्डरवः शृगालसमूहस्य कोलाहलम् आकर्णयत् । तम् शृगालरवं श्रुत्वा सः अपि तथा एव शब्दम् अकरोत् । तस्य शृगालसदृशं ध्वनिं श्रुत्वा सिंहआदयोऽपि `शृगालोऽयम्' इति ज्ञात्वा तं खण्डशः अकुर्वन् । उक्तञ्च- आत्मपक्षम् परित्यज्य परपक्षेषु यो रतः । स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥ मल्लेश्वरी सिडनीनगरे २००० तमे वर्षे ओलम्पिकप्रतिस्पर्धासु सितम्बरमासस्य विंशतिततम्यां तारिकायां भारोत्तोलने कांस्यपदकम् अलभत् । अस्मिन् अवसरे भारतदेशस्य प्रधानमन्त्री श्री अतलबिहारी वाजपयी दूरभाषेण सिडनीनगरे मल्लेश्वरीमकथयत् - "त्वमसि भारतदेशस्य गौरवम् ।" एतत् श्रुत्वा कस्य जनस्य रोमहर्षणं न संजायते ? इयं भारतीया नारी १९७५ तमे वर्षे जूनमासस्य प्रथमतारिकायाम् आन्ध्रप्रदेशे नन्दलूर्नामके स्थाने अजायत । अस्याः पितुः नाम करनमनोहरः मातुश्च नाम श्यामला अस्ति । माता श्यामला अस्याः सदैव उत्साहसंवर्धनमकरोत् । यदा इयं भारोत्तोलनस्य अभ्यासं करोति स्म तदा सा स्वसुतायाः भोजनस्य समुचितां व्यवस्थामकरोत् । यदा मल्लेश्वरी नववर्षीया आसीत् तदा प्रभृति एषा अमूदवलासानगरे उसावनीपेराग्रामे भारोत्तोलनस्य अभ्यासं प्रारभत । नीलमसेट्टी आपन्ना अस्याः प्रशिक्षकः आसीत् । रूसदेशीयः अस्याः अपरः प्रशिक्षकः रियाबोंको भारोत्तोलने अस्याः रुचिम् एकाग्रतां च भृशं प्राशंसत् । एकदा सा भारोत्तोलनप्रसंगे जवाहरलालनेहरूक्रीडाप्राङ्गणमगच्छत् । तत्र तस्या परिचयः एकेन् भारोत्तोलकेन राजेशत्यागी नामकेन युवकेन सह अभवत् । तेन् सह अस्याः परिणयः अभवत् । इत्थम् आन्द्रप्रदेशस्य सुता हरियाणा-प्रदेश्स्य वधूः संजाता । १९९० तमे वर्षे उदयपुरे युवककनिष्ठराष्ट्रियस्पर्धासु सा रजतपदकं लब्धवती । १९९२ तमे वर्षे तुर्कीदेशे विश्वचैम्पियनप्रतिस्पर्धासु द्वौ स्वर्णपदकौ एकं च रजतपदकंलब्धवती । १९९४ तमे वर्षे सा चीनदेशे त्रीन् स्वर्णपदकान् लब्धवती । अस्मिन्नेव वर्षे कोरियादेशेऽपि सा त्रीन् स्वर्णपदकान् अलभत् । अधुना सा भार्तीयखाद्यनिगमे उपप्रबन्धकलङ्करोति । २००० तमे वर्षे सिडनीनगरे ओलम्पिकक्रीडासु कांस्यपदकं लब्ध्वा एषा एतादृशी प्रथमा भारतीयमहिला संजाता । वयमपि एतामनुकुर्वन्तः देशस्य गौरवं संवर्धयितुं प्रयतेमहि । वसन्तः ऋतुः पृथिवी रविं परितः भ्रमति । अस्याः भ्रमणेनैव एकस्मिन् वर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरश्च इमे षड् ऋतवः भवन्ति । शिशिरस्य पश्चात् फरवरीमार्चमासयोः वसन्तः ऋतुः आगच्छति । अस्मिन् ऋतौ सूर्यस्य रश्मयः मनाक् उष्णाः भवन्ति । एतस्मात् कारणात् अस्मिन् ऋतौ न अतिशीतम् न च अत्युष्णम् भवति । अयमेव हेतुः यत् सर्वेषु ऋतुषु एषः ऋतुः सर्वेषां प्रियतमः वर्तते । अस्य ऋतोः ऋतुराजः मधुमासः कुसुमाकरः इति अनेकानि नामानि सन्ति । अस्मिन् ऋतौ सर्वतः वृक्षेषु नूतनाः पल्लवाः रम्याणि च पुष्पाणि उद्भवन्ति । सकला धरा अभिनवैः परिधानैः इव सज्जिता भवति । आम्रवृक्षोऽअपि नूतनैः पल्लवैः नूतनाभिः च मञ्जरीभिः युक्तः भवति । अस्य शाखासु स्थित्वा कोकिलः पञ्चमेन स्वरेण मधुरं गायति । अस्य मधुरः स्वरः जनानां चित्तं हरति । युवतयः केशेषु पुष्पाणि धारयन्ति । ताः प्रसन्नाः भूत्वा इतस्ततः भ्रमन्ति । मधुकराः अपि पुष्पेषु स्थित्वा पुष्पाणां रसं पिबन्ति गुञ्जन्ति च । अस्मिन् ऋतौ उद्यानानां अतीव रमणीया भवति । विकसितानि चित्रवर्णानि पुष्पाणि परितः जनाः जनानां चित्तम् आह्लादितं कुर्वन्ति । अनेके संगीतकार्यक्रमाः सांस्कृतिककार्यक्रमाः च भवन्ति । जनाः एतेषु कार्यक्रमेषु आगत्य प्रसीदन्ति । माघमासस्य शुक्ले पक्षे पञ्चम्यां तिथौ स्थाने स्थाने वसन्तपञ्चमी-महोत्सवः समायोज्यते । वसन्तपञ्चम्याम् जनाः पीतानि वस्त्राणि धारयन्ति पीतं च ओदनं खादन्ति । बालाः अस्मिन्नेव दिवसे सरस्वतीपूजां कृत्वा विद्याअध्ययनस्य आरम्भं कुर्वन्ति । ग्रामे ग्रामे अनेकेषु स्थानेषु कृषकाः इक्षूणां रसेन गुडस्य शर्करायाश्च निर्माणं च कुर्वन्ति । जनाः इक्षूणां रसम् पीत्वा तृप्तिमनुभवन्ति । क्षेत्रेषु सर्वतः सर्षपस्य पादपाः सकलाम् धरां पीतवर्णाम् कुर्वन्ति । एवम् एषः ऋतुराजः सर्वान् जनान् रञ्जयति सर्वेभ्यश्च अत्यन्तं रोचते । सूक्तयः १. शरीरमाद्यं खलु धर्मसाधनम् । २. मूर्खस्य नास्ति औषधम् । ३. दूरतः पर्वताह् रम्याः । ४. आशा दुःखस्य कारणम् । ५. विनाशकाले विपरीतबुद्धिः । ६. अति सर्वत्र वर्जयेत । ७. सत्यमेव जयते । ८. हितं मनोहारि च दुर्लभं वचः । ९. न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । १०. सत्संगतिः कथय किं न करोति पुंसाम् । महादानी कर्णः (ततः प्रविशति ब्राह्मणवेषधारी शक्रः) शक्रः भो कर्ण! महत्तरां भिक्षां याचे । कर्णः भगवन्! कर्णोऽहं, भवन्तं नमस्करोमि । आज्ञापय किमिच्छसि, किं ददामि । शक्रः महत्तरां भिक्षां याचे । कर्णः महत्तरां भिक्षां भवते प्रदास्ये । गोसहस्रं ददामि । शक्रः मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण! कर्णः किं नेच्छति भवान्? वाजिनां बहुसहस्रं ते ददामि । शक्रः मुहूर्तकम् आरोहामि । नेच्छामि कर्ण! नेच्छामि । कर्णः एतत् वारणानां वृन्दं ददामि । शक्रः एतदपि नेच्छामि । कर्णः अन्यदपि श्रूयताम् ! अपर्याप्तं कनकं ददामि । शक्रः गृहीत्वा गच्छामि । (गत्वा पुनरागत्य च) नेच्छामि कर्ण! नेच्छामि । कर्णः तेन हि जित्वा पृथ्वीं ददामि । शक्रः पृथिव्याः किं करिष्यामि ? कर्णः तेन हि मच्छिरो ददामि । शक्रः अविहा! अविहा! कर्णः न भेतव्यम्, न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि, श्रूयताम्-भगवते यदि रूचितं स्यात् कुण्डलाभ्यां सह कवचं ददामि । शक्रः ददातु, ददातु । कर्णः (आत्मगतम्) एषः एवास्य कामः । (प्रकाशम्) गृह्याताम् । शल्यराजः अङ्गराज! न दातव्यम्, न दातव्यम् । कर्णः शल्यराज! अलम् अलं वारयितुम् । तस्मात् गृह्यताम् । (निवृत्य ददाति) महात्मा गान्धी महात्मा गान्धी अस्माकं राष्ट्रपिता अस्ति । एतस्य महापुरुषस्य जन्म गुर्जरराज्यस्य पोरबन्दरनामके नगरे १८६९ ईसवीये अक्तूबरमासस्य २ दिनाङ्के अभवत् । अस्य पित करमचन्द गान्धी' आसीत् माता 'पुतलीबाई' च । एतस्य पूर्णं नाम 'मोहनदास करमचन्द गान्धी' आसीत् । गान्धिमहोदयस्य प्रारम्भिकी शिक्षा गुर्जरराज्ये एवाभवत् । तदनन्तरं स विधिशास्त्रं पठितुम् आङ्ग्लदेशं गतवान् । शिक्षा समाप्य स स्वदेशमागतवान् । ततः अफ्रिकादेशं गत्वा तत्र रङ्गभेदनीतिः विरोधं कृत्वा सफलतां प्राप्त्वान् । स्वदेशम् आगत्य महात्मा गान्धी आङ्ग्लशासनं विरुध्य आन्दोलनस्य नेतृत्वं कृतवान् । तस्य नेतृत्वेन अस्माकं देशः १९४७ ईसवीये अगस्तमास्य १५ दिनाङ्के स्वतन्त्रोऽभवत् । गान्धिमहोदयस्य समाजसेवा मानवसेवा चानुपमा आसीत् । स्वतन्त्रतासङ्ग्रामे सत्यम् अहिंसा चेति अस्य द्वे अस्त्रे आस्ताम् । एषः महात्मा न केवलम् अस्माकं कृते अपितु सम्पूर्णस्य विश्वस्य कृते अनुकरणीयः वन्दनीयः चास्ति । ६- नृपस्य न्यायः ***************************************************************** एकः नृपः आसीत् । सः अतीव बुद्धिमान् न्यायपरायणः चासीत् । तस्य प्रखरबुद्धेः निष्पक्षन्यायस्य च प्रशंसा सर्वत्रासीत् । प्रतिदिनं सः राजसभायां स्वप्रजानां निवेदनं श्रुत्वा उचितं न्यायं करोति स्म । एकस्मिन् दिवसे तस्य राजसभां परस्परं विवदमाने द्वे स्त्रियौ आगच्छताम् । तयोः एका गीता अपरा च लता आसीत् । ते द्वे भगिन्यौ आस्ताम् । तयोः पार्श्वे एकः शिशुरासीत् । नृपेण तयोर्विवादस्य् कारणं पृष्टम् । गीतयोक्तम्-"श्रीमन्! अहं गीता । एषः बालः मम पुत्रोऽस्ति । अहमेव अस्य मातास्मि । एषा लता मया सह मिथ्या कलहं करोति ।" लता उक्तवती-"नहि श्रीमन्! एषः बालः मम एवास्ति । अहं हि अस्य माता अस्मि । एषा गीता सन्तानहीनास्ति । सन्तानस्य लोभेन एषा मिथ्या वदति ।" नृपः एतयोर्विवादेन चिन्तामग्नः जातः-"विलक्षणः विवादः । एकः बालः, द्वे मातरौ! सत्यमेव कास्ति माता?" नृपः क्षणं चिन्तितवान् । दृष्ट उपायः । सः त्वरितमेकम् आरक्षकमाहूतवान् । तस्य हस्ते तीक्ष्णः कृपाणः आसीत् । नृपः तमारक्षकम् उक्तवान्-"कृपाणेन अस्य शिशोः खण्डद्वयं कुरु । शिरस्येव कृपाणं चालय येन अस्य समानरुपेण खण्डद्वयं भवेत् । एकं खण्डं गीता अपरं च लता स्वीकरोतु ।" नृपस्यादेशेन आरक्षकः कृपाणमादाय अग्रे आगच्छत् । तदा लता तु तूष्णीं स्थिता परन्तु गीता उच्चैः अक्रन्दत् । सा बालस्य वधं निषिध्य नृपमवदत्-"श्रीमन्! नास्ति मम प्रयोजनं विवादेन् । एषा लता एतं बालं स्वीकरोतु । सैव अस्य माता भवतु । जीवतु एषः बालः । एतस्योपरि मम अधिकारः मास्तु ।" नृपः इङ्गितेन आरक्षकं निवारितवान् । नृपोऽवदत्-"अस्तु, यस्याः हृदये शिशोः जीवनं स्वाधिकारात् महत्तरं सैव तस्य माता भवितुम् अर्हति । अतः गीता एवास्य शिशोः माता । सैव शिशुं ग्रहीष्यति । अस्ति लता मिथ्यावादिनी । एषा दण्डभागिनी भवतु ।" भयेन कम्पमाना लता स्वदोषं स्वीकृतवती । नृपस्यादेशेन तं शिशुं स्वक्रोडमादाय् गीतावदत्-"हे दयालो राजन्! एषा मे भगिनी क्षन्तव्या । मया मम बालः प्राप्तः, तदेव पर्याप्तम् ।" नृपः लतामपि अक्षाम्यत् । सर्वे नृपस्य न्यायं भूयं प्रशंसितवन्तः । परमवीरः चन्द्रशेखरः "तव नाम किम् ?" "आजादः ।" "तव पिता कः ?" "स्वाभिमानः ।" "निवासस्थानं कुत्र ?" "कारावासः ।" एतादृशम् उत्तरम् आसीत् परमनिर्भीकस्य पञ्चदशवर्षीयस्य बालकस्य चन्द्रशेखर-आजादस्य । अनेन उत्तरेण क्रुद्धः आङ्ग्लन्यायधीशः तस्मै पञ्चदशवारंवेत्राघात्म् आदिष्टवान् । सः च चन्द्रशेखरः सहर्षं तं कठोरं वेत्राघातम् असहत । परमपुण्या वाराणसी नगरी महावीरस्य चन्द्रशेखरस्य जन्मस्थानम् आसीत् । प्रसिद्धस्य 'क्वीन्स कालेज'- नामकस्य संस्कृत-महाविद्यालयस्य दीप्तिमान् छात्रः चन्द्रशेखरः राष्ट्रं प्रति आत्मानं समर्पितवान् आसीत् । 'जालियँवाला'- काण्डे आङ्ग्लशासनस्य नृशंसतां श्रुत्वा विचलितः सन् तस्मात् क्रूरशासनात् देशस्य मुक्तये तेन सङ्कल्पः कृतः । सशस्त्रस्य सङ्ग्रामस्य कृते धनसङ्ग्रहार्थम् अन्यैः सहयोगिभिः सह आजादः 'काकोरी' नामके स्थाने राजकीयकोषम् अपहृतवान् । लालालाजपतराय- महोदयस्य घातकः 'सैण्डर्स'- नामकः आङ्ग्लः तैः क्रान्तिकारिभिः निहतः । केन्द्रिय-विधानसभायाम् एतेषां विस्फोटनेन आङ्ग्लशासनमपि भयाक्रान्तं जातम् । परन्तु अहो, कालस्य कुटिला गतिः ! १९३१ ईसवीयस्य फरवरी - मासस्य द्वाविंशतमः दिवसः भवति स्म । परमवीरः चन्द्रशेखरः प्रयागनगरस्य 'अलफ्रेड'- नामके उद्याने उपविष्टः आसीत् । सहसा सः आङ्ग्लसैनिकैः परिवृतः अभवत् । तथापि परमसाहसेन स्वस्य गुलिकाचक्रेण सः अनेकान् सैनिकान् पातितवान् । परन्तु आजादः एकाकी एव आसीत् सैनिकाः बहुसङ्ख्यकाः च । अतएव यदा तस्य समीपे एकैव गुलिका अवशिष्टा जाता तदा सः तया गुलिकया आत्मानमेव निहतवान् । एतादृशीं वीरगतिं लब्ध्वा एषः आजादः अन्ततः 'आजाद' एव अतिष्ठत् । सत्यम्- कीर्तिर्यस्य स जीवति । पुनरावर्तन रामः वनम् अगच्छत् । लक्ष्मणः सीता च रामेण सह अगच्छताम् । तत्र ते पर्णकुटीरे अतिष्ठन् । लङ्कायाः नृपः रावणः वनात् सीताम् अहरत् । रामस्य भक्ताः वानराः समुद्रे सेतुबन्धनं कुर्वन्ति । ततः परं रामः लक्ष्मणेन सह लङ्कां गच्छति । ते वानराः तत्र गच्छन्ति । रावणेन सह रामस्य युद्धं भविष्यति । युद्धे रावणादयः राक्षसाः मरिष्यन्ति । सीतया लक्ष्मणेन च सह रामः अयोध्याम् आगमिष्यति । रामः अयोध्यायाः राजा भवतु । रामस्य राज्ये जनाः कदापि दुखं न अनुभवन्तु । सर्वे जनाः सुखेन तिष्ठन्तु । चतुरः शशकः ********************************************* कदाचिद् वर्षास्वपि वृष्टेः अभावात् तृषार्तो गजयूथो यूथपतिमाह- "नाथ ! कोऽभ्युपायः अस्माकं जीवनाय ? नास्ति क्षुद्रजन्तूनांनिमज्जनस्थानम् । वयम् निमज्जस्थानस्य अभावात् मृतप्राया इव । किं कुर्मः? क्व यामः? ततो हस्तिराजः समीपं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरे अवस्थिताः क्षुद्रशशकाः गजपादैः चूर्णिताः। अनन्तरं शिलीमुखो नाम शशकः चिन्तयामास -" अनेन पिपासाकुलितेन गजयूथेन प्रत्यहम् अत्रागन्तव्यम् ।अतः अस्मत्कुलं विनङ्क्ष्यति।" ततो विजयो नाम वृद्धशशकोऽवदत्-"मा विषीदत।अत्र मया कश्चिदुपायः कर्तव्यः" एतदुक्त्व सः ततो गतः। गच्छता तेनालोचितम्- "गजयूथपतेः समीपं गत्वा मया किं वक्तव्यम्? यतः- "स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः। पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः॥ अतोऽहं पर्वतशिखरमारूह्य यूथपतिं संवादयामि।" तथाऽनुष्ठिते यूथपतिः उवाच-"कस्त्वम्? कुतः समायातः?" स ब्रूते-"शशकोऽहः भगवता चन्द्रेण भवदन्तिकं प्रेषितः" यूथपतिराह-"सन्देशः उच्यताम्"। विजयो ब्रूते-"श्रुणु, यदेते चन्द्रसरोवरस्य रक्षकाः शशकाः त्वया निःसारिताः तदनुचितं कृतम्। ते शशकाः चिरम् अस्माभिः रक्षिताः। तेऽस्मदीयाः अतएव मे शशाङ्क इति प्रसिद्धिः।" एवमुक्तवति दूते यूथपतिः भयाद् इदमाह-" इदमज्ञानतः कृतम्। पुनर्न करिष्यामि।" शशक उवाच-"यद्येवं तदत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य तं च प्रसाद्य इतो गच्छ ।" ततो रात्रौ यूथपतिं नीत्वा जले चंचलं चन्द्रप्रतिबिम्बं दर्शयित्वा यूथपतिः प्रणामं कारितः। उक्तञ्च तेन-"देव !अज्ञानादनेन अपराधः कृतः, ततः क्षम्यताम् ,नैवं पुनः करिष्यति" इत्युक्त्वा प्रस्थापितः। साधूक्तम्- व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे। शशिनो व्यपदेशेन शशकाः सुखमासते॥ कालियदमनम् (ततः प्रविशन्ति गोपकन्यकाः) सर्वाः - (दामोदरं प्रति ) मा खलु मा खलु भर्तः ! एतं जलाशयं प्रवेष्टुम् । एष खलु दुष्टमहोरगकुलावासः। दामोदरः -न खलु न खलु विषादः कार्यः। पश्यन्तु भवत्यः। सर्वाः -भर्तः ! संकर्षण ! वारय वारय भर्तृदामोदरम्। (प्रविश्य) संकर्षण - अलमलं भयविषादाभ्याम्। दर्शितोऽनुरागः। पश्यन्तु भवत्यः। सर्वाः - हं भर्तृदामोदरोऽपि तादृश एव। दामोदरः - सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि। (इति ह्रदं प्रविष्टः) सर्वाः - हा हा धूम उत्थितः। दामोदरः -अहो ह्रदस्य गाम्भीर्यम्(इत्युक्त्वा निष्क्रान्तः) (ततः प्रविशति वृद्धगोपालकः) वृद्धगोपालकः - हा भर्तः! एष कन्यकाभिः वार्यमाणो यमुनाह्रदं प्रविष्टः । मा खलु मा खलु साहसं कृत्वा प्रवेष्टुम् । अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्रैव म्रियन्ते । कथं न दृश्यते? किमिदानीं करोमि? भवतु, इमं तावत् कुम्भपलाशमारूह्य निध्यायामि। हा हा धूम उत्थितः। संकर्षणः - पश्यन्तु भवत्यः - दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य। भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवाभाति॥ वृद्धगोपालकः- ही ही साधु भर्तः! साधु! (ततः प्रविशति कालीयं गृहीत्वा दामोदरः) सर्वाः - आश्चर्यं भर्तः। आश्चर्यम्। कालियस्य पञ्च फणान् आक्रामन् हल्लीसकं प्रक्रीडति। दामोदरः -कालिय! ते शक्तिरस्ति , दह्यतां ममैको भुजः। कालियः - हं तिष्ठ इदानीम्, एष त्वां भस्मीकरोमि। (विषाग्निं मुञ्चति) दामोदरः -हन्त दर्शितं ते बलम्। कालियः -प्रसीदतु प्रसीदतु भगवान् नारायणः। दामोदरः -अनेन बलेन भवान् गर्वितः। कालियः -प्रसीदतु भगवन् ! अज्ञानाद् अतिक्रान्तवान् , सान्तःपुरः शरणागतोऽस्मि। दामोदरः-कालिय! किमर्थमिदानीं यमुनाहृदं कालियः - भगवतो वरवाहनाद् गरुङाद् भीतोऽहमस्मि प्रविष्टोऽस्मि। तदिच्छामि गरुङादभयं भगवत्प्रसादात्। दामोदरः -भवतु भवतु। मम पादेन नागेनद्र! चिन्हितं तव मूर्धनि। सुपर्ण एव दृष्ट्वेदमभयं ते प्रदास्यति॥ कालियः - अनुगृहीतोऽमि। दामोदरः - प्रविशतु भवान्। कालियः -यदाज्ञाप्यति भगवान् नारायणः। दामोदरः - अथवा एहि तावत्। कालियः -भगवन्! मद्विषदूषितम् इदं जलं। तदिदानीमेव विषं संह्रत्य यमुनाह्रदाद् निष्क्रामामि। दामोदरः -प्रतिनिवर्ततां भवन्। कालियः - यदाज्ञापयति भगवान् नारायण (सपरिजनो निष्क्रान्तः) प्रहेलिकाः आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले । प्रबोधयति पद्यानि तमांसि च निहन्ति कः॥१॥ राज्ञः सम्बोधनं किं स्यात्सुग्रीवस्य तु का प्रिया। अधुनास्तु किमिच्छन्ति आर्तैः किं क्रियते वद॥२॥ किमिच्छन्ति नराः काश्यां भूपानां को रणे हितः। को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम्॥३॥ युधिष्टिरः कस्य पुत्रो गङ्गां वहति कीदृशी । हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः॥४॥ कस्तूरी जायते कस्मात्को हन्ति करिणां कुलम्। किं कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनम्॥५॥ भोजनान्ते किं च पेयं जयन्तः कस्य वै सुतः। कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्॥६॥ चलचित्रम् विज्ञानस्य आविष्कारेषु चलचित्रस्यापि आविष्कारस्य महत्त्वं विद्यते। चलचित्रस्य माध्यमेन वयं न केवलं मनो रञ्जयामः , तस्य दर्शनेन स्वज्ञानमपि वर्धयितुं प्रभवामः। एतत् श्रोत्रेन्द्रियेण सह चक्षुरिन्द्रियमपि व्यापृतं करोति। एतस्मात् कारणात् वयं सर्वे नैसर्गिकतया चलचित्रं प्रति आकृष्टा भवामः। सप्तदशशताब्द्यां किर्चननामा वैज्ञानिकः चित्राणां चालनस्य प्रक्रियाया अनुसं धाने तत्परोऽभवत्। परमसौ पूर्णरूपेण सफलो नाभवत्। पश्चात् १८९० तमे वर्षे अमेरिकादेशवासी एडिसनमहोदयः गतिशीलानां चित्राणां निर्माणे सफलताम् अलभत। चलचित्रस्य प्रक्रिया एवं वर्णयितुं शक्यते। अभिनेतारः अभिनेत्र्यश्च नाटकवद् अभिनयं कुर्वन्ति। चित्रयन्त्रं एतावत्या त्वरया तेषां चित्राणि गृह्णाति यत् तेषां प्रत्येकं भावस्य कर्मणो वा सकलानाम् अंशानां चित्राणि गृहीतानि भवन्ति। चित्रयन्त्रेण गृहीतानि एतानि चित्राणि यदा चलचित्रप्रक्षेपिणा त्वरितया गत्या चित्रपटे प्रदर्श्यन्ते तदा तानि सजीवानि प्रतीयन्ते। पूर्वं चलचित्रं ध्वनिरहितं वर्णरहितं चासीत्। अधुना चलचित्रणम् अत्यधिकं विकसितं वर्तते। ध्वनिसंयोजनेन विविधवर्णानां च सज्जया चलचित्रमतीव मनोहारि आकर्षकं च संजातम्। चलचित्रं साहित्यस्य इतिहासस्य च परिचयं ददाति । चलचित्रस्य माध्यमेन विभिन्नानां देशानां संस्कृतीनां ज्ञानमपि प्राप्तुं शक्नुमः । 'जुरासिकपार्क' नामकं चलचित्रं प्रागैतिहासिकान् महासरीसृपान् अधिकृत्य निर्मितम् । 'टाइटैनिक' नामकं चलचित्रं बृहत्पोतस्य समुद्रे निमज्जनमधिकृत्य निर्मितम् । एतेन एका सत्या घटना महता कौशलेन पुनरुज्जीविता । एते द्वे चलचित्रे सर्वैरेव दर्शनीये । एतादृशानि चलचित्राणि अन्यानि च कलाकृत्यानि चलचित्राणि अस्माकं ज्ञानं वर्धयन्ति शरीरस्य मनसश्च श्रान्तिं दूरीकुर्वन्ति । महर्षि रमणः १८७९ तमे वर्षे दिसम्बरमासस्य नवविंशतितम्यां तारिकायां रात्रौ एकवादनवेलायां तिरुचुलीनाम्नि ग्रामे वेंकटरमणस्य जन्म अभवत् । श्रीसुन्दरम् अय्यरमहोदयः तस्य पिता अलगम्मलमहोदया च तस्य माता आसीत्। यदा वेंकटरमणः षड्वर्षीयः आसीत् तदा असौ पत्रचिल्लस्य पत्रतरणेश्च निर्माणे विधिव्यवहारपत्राणां गुच्छकस्य उपयोगं कृतवान् । एतस्य क्रीडाकृत्यस्य कृते स मातृपितृभ्यां तर्जितः। दुःखितः सन् सः श्रीसहायवल्लीमन्दिरे प्रतिमान्तरितो भूत्वा अतिष्ठत्। न कोऽपि तमन्वेष्टुं सफलोऽभवत् । संध्यासमये यदा मन्दिरे आरात्रिकम् अभवत् तदा दीपस्य प्रकाशे पूजकाः प्रतिमायाः समीपे तमपश्यन् । नूनं वेंकटरमणेन स्वदुःखहरणाय जगज्जननी प्रार्थिता । यदा वेंकटरमणो द्वादशवर्षीयः आसीत् तदा तस्य पिता सुन्दरम् अय्यरमहोदयः दिवंगतः । स मदुरईनगरे स्वपितृव्यस्य श्रीसुब्बा -अय्यरमहोदयस्य गृहमगच्छत् । एकदा सप्तदशवर्शीयो वेंकटरमणः गृहस्य प्रथमे तले आस्त । तदा स अकस्मात् मृत्युभयेन आक्रान्तोऽभवत्। अन्तर्मुखो भूत्वा असौ अचिन्तयत्-"अधुना मृत्युः आगतः। अस्य कोऽर्थः? शरीरमेव म्रियते। " तदा मृत्युमभिनीय स शववत् भूमौ अशेत अचिन्तयच्च-"मृतशरीरं श्मशानं नीयते तत्र अस्य अग्नि संस्कारः क्रियते । किमहमपि शरीरेण सह मृत्युं प्राप्स्यामि?" तदा सः अन्वभवत् यत् सः शरीरात् पृथक् आत्मरूपेण वर्तते । एतस्माद् अनुभवात् अनन्तरं वेंकटरमणः आत्मचिन्तनमकरोत् । सप्तदशवर्षीयः वेंकटरमणः गृहाद् निष्क्रम्य तिरुवन्नमलाईप्रदेशे अरुणाचलम् अगच्छत् । तत्र अरुणाचलेश्वरमन्दिरे भगवतः अरुणाचलेश्वरस्य समक्षं सः सर्वं त्यक्तवान्। आत्मचिन्तनं कुर्वन् मौनं धारयन् साधकानां च आत्मविषयकप्रश्नान् समादधन् असौ ओंकारकारायां विरूपाक्षगुहायां सप्तदशवर्षाणि अवसत् । अत्रैव मुनिः काव्यकण्ठगणपतिः नयन इति अपरनामा तस्य सान्निध्यं प्राप्नोत्। भगवान् महर्षिरमण इति वेंकटरमणस्य नूतनं नामकरणं नयनमुनिना कृतम्। अत्रैव तस्य माता अलगम्मलमहोदया तेन सह वस्तुम् अगच्छत्। १९१६ तमवर्षतः १९२२ तमवर्षपर्यन्तं भगवान् महर्षिरमणः अरुणाचलस्य दक्षिणपूर्वभागे स्कन्दस्वामिना निर्मिते स्कन्दाश्रमे स्व मात्रा सह न्यवसत्। १९२२ तमे वर्षे मईमासस्य एकोनविंशतितमे दिवसे तस्य माता रुग्णा अभवत् महासमाधिं च अलभत । प्रातःकाले तस्याः अस्थिशेषाः अरुणाचलस्य दक्षिणभागवर्तिन्याम् उपत्यकायाम् आनीताः। अधुना अत्रैव महर्षिरमणस्य आश्रमो विद्यते । अप्रैल मासस्य चतुर्दश्यां तारिकाआं १९५० तमे वर्षे भगवान् महर्षिरमणः महासमाधौ प्राविशत्। भगवतो महर्षेः रमणस्य उपदेशः आसीत् यत् वयं सर्वे 'कोऽहम्' इति प्रश्नस्य चिन्तनं समाधानं च कुर्याम । एतदेव चिन्तनम् अन्तःकरणस्य शुद्धिं कुर्वत् आत्मनः साक्षात्कारं कारयति। भयदुःखसंकुलेऽस्मिन् जगति महर्षिरमणस्य उपदेशः अस्मभ्यं सर्वेभ्यः शान्तिं वितरति। तिरुवन्नमलाईप्रदेशे महर्षिरमणस्य आश्रमः, विरूपाक्षगुहा, स्कन्दाश्रमः, अरुणाचलेश्वरमन्दिरश्च एतादृशानि स्थानानि सन्ति यत्र स्थित्वा जनाः मनसि शान्तिमनुभवन्ति । ओम् नमो भगवते श्रीरमणाय । चत्वारः पुरुषार्थः धर्मः अर्थः कामः मोक्षश्चेति चत्वारः पुरुषार्थाः सन्ति । पुरुषार्थ इति शब्दस्य पुरुषस्य प्रयोजनम् इति अर्थोऽस्ति। पुण्यं प्राप्तुं यत् शास्त्रविहितं कर्म क्रियते सः धर्म इत्यभिधीयते । कः धर्म इति प्रश्नस्य समाधाने शिष्टानाम् आचरणमपि प्रमाणं भवति । सामान्यतः पुण्यपर्वसु तीर्थदर्शनं तत्र च स्नानं, देवानां स्तोत्राणां पाठः, दुःखितानां जनानां दुःखस्य अपहरणं, स्वर्गं प्राप्तुं यज्ञानामनुष्ठानं, नियमतः संध्यासमये भगवतो भजनं ध्यानं च इत्यादीनि ईदृशानि च अन्यानि कर्माणि धर्मः इति कथयितुं शक्यन्ते । धर्मः प्रथमः पुरुषार्थः । अर्थः द्वितीयः पुरुषार्थः । भोजनं गृहं वस्त्रं धनम् अन्यानि च जीवनस्य दुःखेन यापनसाधनानि भोगस्य साधनानि भवन्ति तानि सर्वाणि अर्थेऽन्तर्भवन्ति । धर्मादनन्तरम् अर्थस्य कथनस्य एतत् प्रयोजनं यत् अर्थो धर्मविरुद्धो न भवेत् । इच्छा कामस्य अपरं काम । काम इति शब्देन सर्वविधा इच्छा अभिधीयते। इच्छा सुखस्यैव भवति । अतः पुरुषः यद् यत् सांसारिकं सुखम् इच्छति तत् तत् सर्वं कामे अन्तर्भवति । कदाचित् स वृक्षादीनां शोभां दृष्टुम् इच्छति, कदाचित् संगीतं श्रोतुं, कदाचित् प्राकृतिकानां मनोहारिणां दृश्यानां सौन्दर्यं दृष्टुं,कदाचित् सुगन्धान् आघ्रातुं ,कदाचित् सुखदासु शय्यासु शयितुम् अभिलषति । काम एव पुरुषं सर्वासु एतासु क्रियासु प्रवर्तयति । यदि सम्यग् अर्जितेन धनेन एतत् सर्वंम् अनुभूयतां तर्हि वरम्। मोक्षः चतुर्थः पुरुषार्थः । सामान्यतया मनुष्यः पूर्वान् त्रीन् पुरुषार्थान् सम्यग्रूपेण मोक्षस्य अधिकारी भवति । मोक्षो नाम त्रिविधदुखेभ्यः सर्वथा मुक्तिः । निर्वाणम् इति मोक्षस्य अपरः पर्यायः । यदा मानवस्य सकलाः कामनाः शान्ताः भवन्ति ,यदा स मानापमानयोः समानः तिष्ठति, यदा स रागं द्वेषं चातिक्रामति तदा स मोक्षं प्राप्नोति संसारस्य च दुःखानि तरति । तस्य जराभयं मृत्युभयं वा न विद्यते। परिहासिकाः चिकित्सकः- मन्ये ,त्वम् अलर्करोगेण आक्रान्तोऽसि । रोगी- यद्येवं तर्हि भवान् मह्यम् एकं कर्गलं यच्छतु । चिकित्सकः- किं त्वं इच्छापत्रं लेखितुम् इच्छसि? रोगी- न, अहं तु तेषां नामानि लेखितुम् इच्छमि यान् अहं दङ्क्ष्यामि। (त्रीणि मित्राणि परस्परं वार्तालापं कुर्वन्ति ईश्वरं प्रार्थयन्ते) प्रथमं मित्रं-हे ईश्वर ! मह्यं त्वं स्वर्णपूर्णं गृहं यच्छ । द्वितीयं मित्रं- हे भगवन् ! त्वं मे रत्नैः पूर्णं गृहं यच्छ। तृतीयं मित्रं- हे प्रभो ! तादृशं गृहम् उद्घातयितुम्ं कुञ्चिकां मह्यं देहि। अध्यापकः- (शिष्यं प्रति) रोहित ! त्वम् अति दुष्टोऽसि । श्वः स्वपित्रा सह अत्र आगन्तव्यम् । रोहितः- श्रीमन्तः ! यद्येवम् अस्ति तर्हि शतं रुप्यकणि भवद्भिः मह्यं देयानि। अध्यापकः - किमर्थम् ? रोहितः- मम पिता तु चिकित्सकोऽस्ति । शतरुप्यकाणि शुल्कं बिना नासौ कुत्रापि गच्छति । (न्यायालये न्यायाधीशम् अपराधिनं च अन्तरा वार्तालापो भवति ) न्यायाधीशः- यदि त्वं मृषा वदिष्यति तर्हि कुत्र गमिष्यसि ? अपराधी- ननु नरकमेव गमिष्यामि । न्यायाधीशः - यदि त्वं सत्यं वदिष्यसि तदा कुत्र ? अपराधी- कारागारम् । (मोहनः विनायकं पूजयति । पूजया प्रसन्नो भूत्वा विनायकः आविर्भवति) विनायकः -वत्स ! वद किमिच्छसि? मोहितः- मारुतिकारयानं मे स्यादिति वाञ्छामि। विनायकः- मम वाहनं मूषको वर्तते । कथमहं तुभ्यं कारयानं दास्यामि? इयमेका श्लोकरूपा प्रसिद्धा परिहासिका- कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया॥ सर्वदमनो भरतः (क) बालः- जम्भृस्व सिंह ! दन्तांस्ते गणयिष्ये। प्रथमा (तपस्विनी)- अविनीत ! किं नः अपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि? हन्त ! वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि |राजा- किं नु खलु बालेऽस्मिन् औरस इव पुत्रे स्निह्यति मे मनः? नूनमनपत्यता मां वत्सलयति। द्वितीया(तपस्विनी) - एषा खलु केसरिणी त्वां लङ्घयति यदि अस्याः पुत्रकं न मुञ्चसि । बालः- (सस्मितम्)अहो ! बलीयः खलु भीतोऽस्मि। (इत्यधरं दर्शयति) प्रथमा- वत्स ! एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । बालः- कुत्र ! देहि एतत् । (इति हस्तं प्रसारयति) राजा- (बालस्य हस्तं अवलोक्य) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते? द्वितीया - सुव्रते ! न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीये उटजे मार्कण्डेयस्य ऋषिकुमारस्य वर्णचित्रितो मृत्तिकामयूरः तिष्ठति । तमस्योपहर । प्रथमा- तथा । (इति निष्क्रान्ता) बालः - अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति) राजा- स्पृहयामि खलु दुर्ललितायास्मै । तापसी- भवतु । मामयं न गणयति । (पार्श्वमवलोक्य) कोऽत्र ऋषिकुमाराणाम् ? (राजानमवलोक्य) भद्रमुख ! एहि तावत् । मोचयानेन डिम्भलीलया बाध्यमानं बाल मृगेन्द्रम् । राजा- (उपगम्य,सस्मितम्) अयि भो महर्षिपुत्र ! तापसी- भद्रमुख ! न खलु अयम् ऋषिकुमारः । राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्य्यात्तु वयमेवंतर्किणः । तापसी - (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् । राजा - आर्ये ! किमिव ? तापसी- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति । राजा - (बालकामुपलालयन्) न चेन् मुनिकुमारोऽयम् । अथ कोऽस्य व्यपदेशः ? तापसी - पुरुवंशः। राजा- (आत्मगतम्) कथमेकान्वयो मम? (प्रविश्य मृन्मयूरहस्ता) तापसी- सर्वदमन ! शकुन्तलावण्यं प्रेक्षस्व । बालः-(सदृष्टिक्षेपम्) कुत्र वा मम माता ? उभे - नामसादृश्येन वञ्चितो मातृवत्सलः । द्वितीया- वत्स! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । राजा-(आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या । बालः- मातः ! रोचते मे एष भद्रमयूरः। (इति कीडनकमादत्ते) सर्वदमनो भरतः (ख) प्रथमा-(विलोक्य । सोद्वेगम् ) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । राजा- अलमावेगेन । ननु इदम् अस्य सिंहशावकविमर्दात् परिभ्रष्टम् ।(इत्यादातुमिच्छति) उभे- मा खलु एतद् अवलम्व्य- कथम् ! गृहीतम् अनेन । (इति विस्मयात् परस्परम् अवलोकयतः) राजा - किमर्थं प्रतिषिद्धाः स्मः? प्रथमा- श्रुणोतु महाराज ! एषा अपराजिता नाम औषधिः अस्य जातकर्मसमये भगवता मारीचेन दत्ता । एता किल मातापितरौ आत्मानं च वर्जयित्वा अपरो भूमिपतितां न गृह्णाति ? राजा - अथ गृह्णाति ? प्रथमा- ततस्तं सर्पो भूत्वा दशति । राजा- भवतीभ्यां कदाचिद अस्याः प्रत्यक्षीकृता विक्रिया ? उभे - अनेकशः । राजा - (सहर्षम् ।आत्मगतम्) कथमिव सम्पूर्णमिव मे मनोरथं नाभिनन्दामि ? (इति बालं परिष्वजते) द्वितीया - सुव्रते । एहि इमं वृत्तान्तं नियमव्यापृतायै निवेदयावः । (इति निष्क्रान्ते) बालः -मुञ्च माम् ! यावन्मातुः सकाशं गमिष्यामि । राजा- पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि । बालः - मम खलु तातो दुष्यन्तः । न त्वम् । राजा-(सस्मितम्) एष विवाद एव प्रत्याययति। (ततः प्रविशति एकवेणीधरा शकुन्तला) राजा-(शकुन्तलां विलोक्य) अये ! सेयम् अत्र भवती शकुन्तला । शकुन्तला-(पश्चात्तापविवर्णं राजानं दृष्ट्वा) न खलु आर्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । बालः- (मातरमुपेत्य) मातः । एष कोऽपि पुरुषः मां पुत्र इति आलिङ्गति। शकुन्तला-(आत्मगतम्) आर्यपुत्र खल्वेषः । (प्रकाशम्) जयतु जयतु आर्यपुत्रः । अस्माकं पर्यावरणम् या भूमिः यज्जलं यश्च वायुः परितः विद्यते तत्सर्वं मिलित्वा अस्माकं पर्यावरणं कथ्यते । विज्ञानस्य विकासेन यानि उपभोगसाधनानि यानि च अन्यानि अनेकानि उपकरणानि प्रकृतेः अनुकम्पया अस्माभिः उपलब्धानि तैः सर्वैः अस्माकं जीवनं सुखसम्पन्नं संजातम् । परमेतस्यां प्रक्रियायाम् अस्माभिः पर्यावरणस्य महती हिंसा कृता । एतदतिरिक्तं स्वावश्यकताः पूरयितुं वनानां स्थाने भवनानि ,यन्त्रशालाः नूतनास्च मार्गाः अस्माभिः निर्मीयन्ते । एतेन ग्रामाणामपि पर्यावरणस्य स्वाभाविकता नष्टा नगराणां तु का कथा । मोटरयानैः यन्त्रशालानां च अवशिष्टैः विषाक्तपदार्थैः भूमिः जलं वायुश्च -सर्वं पर्यावरणं दूषितं संजातम् । वनानां वृक्षाणां च पातनेन जलम् अवशोषयितुं समर्था न भवति । एतेन हेतुना निदाघो वर्धते । एकस्मिन् समये अतिवृष्टिः तया जलाप्लावः तेन च महती हानिः भवति । अपरस्मिन् समये अनावृष्टिः तया च दुर्भिक्षं आपद्यते । समासतः एतत्कथयितुं शक्यते यत् पर्याअवरणस्य एतावती हानिः कृता यया आसन्ने एव भविष्यति काले शुद्धं जलं शुद्धश्च वायुः दुर्लभो भविष्यति । नूतनाः रोगाः आक्रमिष्यन्ति तैश्च मानवानां अस्तित्वमेव संकटापन्नं भविष्यति ।