सन्देशः युगाब्दः ५१०७ वैशाखमासः मे - २००५ वणिजःबुध्दिमत्ता शुध्दात्मप्रकाशःजैनः बालमोदिनी कस्मिंश्रित् ग्रामे कश्र्चन वणिक् निवसति स्म । सः अत्यन्तं चतुरः । कदाचित् सः गृहे उपवैश्य नाणकानिगणयन् आसीत् । तदा एव मार्गे गच्ग्छन् कश्र्चन चोरः तद् दृष्टवान् । सः मनसि एव चिन्तितवान् यत् -'एतस्य वणिजः समिपे बहु धनम् अस्ति ।अद्य रात्रौ मया एतस्मात् गृहात् एव चोरणीयम् ' इति । मार्गे स्थित्वा चिन्तयन्तं चोरम् अकस्मात् वणिक् अपि दृष्टवान् । तस्य मनसि संशयः उत्पन्नः । एषः मनुष्यः चोरः एव स्यात् । अद्य रात्रौ एषः मम गृहमेव आगचछति' इति दृडं निश्र्चित्य स पत्नीम् आहूय शनैः उक्तवान् -"भवती अद्य रात्रौ उच्च स्वरेण मां -"भवान् धनं सर्वं कुत्र स्थापितवान् अस्ति ? नगरे इदानीं चोरभीतिः वर्धमाना अस्ति इति वदतु "इति । ततः वणिक् एकस्मिन् घते कांश्र्चित् वृश्र्चिकान् स्थापयित्वा घटस्य मुखं वस्त्रेण पिधाय घटं गृहस्य पार्श्र्वे विद्यमानस्य निन्बवृक्षस्य शाखानां मध्ये स्थापितवान् । रात्रिः जाता । वणिक् भोजनादिकं समाप्य शयनम् अकरोत् । तावता सः चोरः चौर्यं कर्तुं तद्गृहसमीपम् आगत्य बहिः आत्मानं गोपयित्वा स्थितवान् । किञ्चित् काल अनन्तरं वणिजः पत्नी उच्च स्वरेण तं - "भोः भवान् धनं सर्वं कुत्र स्थापितवान् अस्ति ? अहं तु भीता अस्मि । प्रतिदिनं चौर्यवार्ता श्रूयते । नगरे चोरभीतिः अधिका जाता अस्ति" इति उक्त्वती । तदा वणिक् - "प्रिये ! मास्तु किञ्चित् अपि भयम् । अस्माकं धनं सुरक्षितम् अस्ति । चोरः आगच्छति चेत् सः गृहे किमपि न प्राप्नोति । यतः अहं धनं सर्वं घटे संस्थाप्य तं घटं निम्बवृक्षस्य उपरि स्थापितवान् । गृहात् बहिः स्थितः चोरः तयोः सम्भाषणं पुर्णं श्रुतवान् । सः मनसि एव चिन्तितवान् - "एषः वणिक् बुध्दिमान् अस्ति । गृहात् बहिः धण गोपितवान् अस्ति । किन्तु अहं तदपेक्षया बुध्दिमान् अस्मि । सर्वं चोरयामि ' इति । सः घटिति ततः निम्बवृक्षसमिपं गतवाम् । वृक्षम् आरुह्य शाखानां मध्ये स्थितस्य घटस्य आवरणं निष्कासितवान् । अन्तः हस्तं प्रसारितवान् च । अनुक्षणमेव तत्रत्याः वृक्षिकाः तम् अदशन् । सः उच्चैः विलपन् अधः पतित्वा ततः पलायनं कृतनान् ।