सन्देशः युगाब्दः ५१०७ ज्येष्ठमासः जून् २००५ शकरं करुणाकरः म. वि. कोल्हटकरः बाल मोदिनी पुरा राज्ञा सगरेण अश्र्वमेधयज्ञः अनुतिष्ठतः । यज्ञीयः अश्र्वः कपिलमुनेः आश्रमे निबध्दः । सगरस्य सहस्त्रं पुत्राः पृथ्वीम् उदखनन्,अश्र्वं च प्राप्नुवन् । तैः सगरपुत्रैः कपिलमुनौ चौर्यकर्म आरोपितम् । क्रुध्दः कपिलः सगरपुत्रान् शपन् तान् भस्मसात् अकरोत् । पश्र्चात् सगरवंशीयः भगीरथः महता तपोबलेन गङा स्वर्गात् भूलोकम् आनयत् , शापग्रस्तानां भस्मीभूतानां पूर्वगानाम् उध्दारम् असाध्नोत् । गङ्गा आदौ श्रीशङ्करेण जटासु गृहिता । पश्र्चात् विदेशदेशे, उत्तरदेशे ,बङदेशे ,च विहृत्य गङ्गा सागरे आत्मानं विलोपितवती । एषु तेषु प्रेदेशेषु स्वजलेन सा सामान्यानाम् अघनाशनं समपादयत् । सुदूरं दक्षिणाञ्चले सुकेशि नाम राजा आसित् । सः प्रजाहिते दक्षः ,सत्यप्रियः, पराक्रमसम्पन्नश्र्च आसित् । राजा सुकेशी भगवतः शङ्करस्य परमः भक्त आसित् । धोरं तपः तेन आचरितम् । तस्य तपसा भगवान् शङ्करः प्रसन्नः अभवत् । सः राजानम् अपृच्छ्त् - "किं यच्छानि ? " इति । सुकेशी निमिषमात्रं विचिन्त्य भाषितवान् - "पुण्यसलिला भागीरथी भवतः जटासम्भारात् निर्गत्य पाटलीपुत्रपर्यन्तं तीरवासिनां पपनि नाशयति । पश्र्चात् सा वामतः वलति । अनन्तरं पूर्वसागरेण सङ्गच्छते . एवं अघनाशिन्याः गङायाः पावनतीर्थलाभात् वञ्चिताः । अतः अहं प्रार्थये -'गङ्गामातुः पादतीर्थं दक्षिणभारतेऽपि उपलब्धं भवेत्' इति । तेन तीर्थेन वयं सर्वे दक्षिणभारतीयाः अपि पापविमुक्ताः भवेम " इति। शङ्करः भक्तप्रियः । "तथाऽस्तु" इति हस्तम् उध्दत्य स अवदत् । हर्षोत्फ़ुल्लः सुकेशी अभाषत - "गङ्गायाः प्रवाहमार्गः परिवर्तितः भवेत्, समग्रे दक्षिनभारते स प्रसृतः भवेत् च इति अपेक्षे अहम् " इति। "प्रवाहे परिवर्तनम् अशक्यम्" इति अवदत् शङ्करः । यदि नागच्छेत् प्रवाहः ,कथं स्यात् तर्हि तीर्थलाभः ? " इति अपृच्छत् सुकेशी । "गुपतरुपेण आगच्छेत् गङ्गा दक्षिणप्रदेशे "इति शङ्करः उक्तवान् । "अव्यत्तायाः गङ्गायाः आराधनं कथं शक्यं भवेत् ? तीर्थलाभाय कः उपायः ?" इति पृष्टवान् सुकेशी । "अव्यक्तायाः गङ्गायाः आराधनस्य अनन्तरं सा व्यक्ता भवेत्" इति तीर्थलाभोपायं सूचितवान् शङ्करः . "कथं कर्तव्या आराधना?। इति पुनः पुनः पृष्टवान् सुकेशी । शङ्करः एकं फलं स्वहस्तेन् अगृह्णात् । अवदत् च"एतत् फलं मम प्रतीकम् । गृहाण एतत् फलम् । मृत्तिकया मृदुमृदुलां शय्यां कुरु । तस्यां शय्यायां भक्तिभावेन् एतत् फलं संस्थापय । मृत्तिकया तत् आवरय । भक्तिपूरवकं तस्मिन् स्थले जसेचनं कुर् । दिव्यः अङ्कुरः पक्षपात्रेण प्रकटितः भवेत् अङ्कुरस्य सेवां निष्ठया कुरु । आकाशम् आलिङ्गितुं समुत्सुकः इव तरुः तत्र महता वेगेन वर्धेत । यथाकालं वृक्षस्य मस्तकप्रदेशे सुन्दरं फलं आविर्भवेत् । फलानां समुच्चयह् चः प्रकटिभवेत् । तत् द्दश्य नयनानन्दमहोत्सवाय भवेत् । रे वत्स, तत् फलं न तत् फलं मम अंशः एव । अंशमात्रेण स्वयम् अहम् एव उच्चस्थाने आत्मानं प्रकटिकरिष्यामि ।" "किं भवेत् भवतः स्वरुपस्य दर्शनम् ?"। इति पृष्टवान् सुकेशी ।"रे, तत् फलं मम एव प्रतिकृतिः । यथा मे मस्तके जटासम्भारः तथा फलस्य मस्तके जटासम्भारः । यथा मे त्रीणि नेत्राणि तथैव तस्यापि भविष्यन्ति त्रीणि नेत्राणि मे जटाभ्यः गङ्गा यथा स्त्रुता तथा पलमध्ये जटाभ्यः स्त्रुतं भवेत् गङ्गाजलम् । अरे यथा गङ्गाजलं शुध्दं ,पवित्रं ,स्वादयुतं तथैव फलस्य अन्तर्भागे शुध्दं ,पवित्रं, स्वाद्यक्तं जलम् । एतस्य फलस्य उपयोगः उपासनायाम् अनिवार्यः भवेत्" इति शङ्करः विशदीकृतवान् । हर्षभरितः राजा सुकेशी शङ्गकरस्य प्रसादस्वरुपं तत् दिव्यं फलं हस्तेन् अहृह्णात् । शङ्करः कृपालुः सः अवदत् - "चिन्तां मा कुरु । एतस्य फलस्य वंशः वेगेन वर्धेत । सागरतटे तेषां सम्मर्दः सर्वत्र द्दश्येत । मस्तके तीर्थकुम्भान् धृत्वा एते वृक्षाः पुण्यशीलानां प्रतीक्षां कुर्युः तस्यः वृक्षस्य दर्शनं कल्याणकारकम् । शुभकार्यारम्भे तस्य उपस्थितिः अनिवार्या भवेत्" इति। सुकेशी भावमग्नः अभवत् । शङ्करस्य वाणीं श्रुत्वा तृप्ति न अविन्दत । सः इच्छति स्म यत् प्रभोः वाक् निरन्तरं शब्दामृतं स्त्रावयेत् इति "भवतः एतस्य अवतारविशेषस्य रहस्यं कृपया विशदीकरोतु" इति प्रार्थयत् सुकेशी ।"कथयामि रहस्यम् एतस्य फलस्य । एतस्मिन् जगति जलेन सह तैलस्य मिश्रणं कदापि न शक्यम् । तथापि र्तस्मिन् प्रसादफले तैलं जलं च सुखेन अभिन्नरुपेण् निवासं करिष्यतः " इति । "किमस्ति साधकानां कृते भवतः सन्देशः ?" "यथा फले जलं तैलं च सुखेन वसतः तथा मानवः अपि संसारे निवसेत् संसारे वसन् अपि संसारे अवसन् इव व्यवहरेत् सः । संसारे लिप्तः द्दस्येत् ,मनसा तु अलिप्तं भवेत् । एषह् एव पन्थाः विद्यते अयनाय। एषः एव मार्गः आनन्दस्य लाभाय " इति । एवम् उक्त्वा शङ्करः सुकेशिनः हस्ते तत् दिव्यं फलम् अयच्छत्, अन्तर्हितश्च अभवत् । तदेव नारिकेलफलं प्रसादस्वरुपं शङ्कस्य ,यस्मिन् च वर्तते पावनं साक्षात् गङ्गायाः तीर्थजलम् ।