सन्देशः युगाब्दः ५७०७ कार्त्तिकमासः अक्टोबर् - २००५ न नीयते सूची अपि दिबन्धुः बाल मोदिनी लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । स्वस्य धनिकत्वस्य विषये महान् गर्वः तस्य । तस्य सम्पत्तिः विंशतिकोटिमिता आसीत् । एतत् द्योतयितुं सः स्वस्य गृहस्य पुरतः विंशतिं पताकाः उड्डाययति स्म । कदाचित् तेन श्रुतं यत् गुरुनानकः लाहोर नगरम् आगत्य धर्मशालायां कस्याञ्चित् वसति इति । दुलीचन्दः तस्य दर्शनार्थं गतवान् । तस्य पुरतः सुवर्णमुद्राग्रन्थिं कञ्चित् संस्थाप्य सः अवदत् -""गुरुवर्य का अन्या सेवा मया करणिया ? आदेष्टव्यः अहम् " इति । गुरुनानकः दर्शनमात्रेण एव अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीम् आनाय्य तस्मै द्त्त्व अवदत् - "अग्रिमे जन्मनि एअतत् प्र्त्यर्पणियं भवता" इति । दिलिचन्दः तां सूचीं गुरुप्रसादं भावयन् स्वगृहं प्रत्यागतवान् , तां सूचीं पूजागृहे भक्तया स्थापितवान् च । किञ्चित्त् कालानन्तरं तस्य मनसि विचारः आगतः 'अग्रिमे जन्मनि सूची प्रत्यर्पणीया इति गुरुणा सूचितम् । कथम् एतत् शक्येत् ? मरण समये किं कोऽपि आत्मना सह सूच्यादि वस्तु नेतुम् अर्हेत् ? न खलु ' इति । अतः सः तस्मिन् एव क्षणे गुरुनानकसमीपम् आगत्य अवदत् -"किञ्चित् कालात् पुर्वं भवता मह्यम् एकां सूचीं दत्त्वा उक्तम् आसित् यत् एषा अग्रिमे जन्मनि प्रत्यर्पणीया इति । एतत् कथं वा शक्येत् ? मरण समये कोऽपि किमपि नेतुं न शक्नोति खलु ? इति । तदा गुरुनान्कः अपृच्छत् -"दुलीचन्दः मरणसमये येन एका सूची अपि नेतुण् न शक्यते सः भवान् स्वस्य समग्रां सन्पत्तिं किं नेतुं न शक्नुयात् ? " इति । एतानि वचानानि श्रुतवति दुलीचन्दे ज्ञानस्य उदयः जातः । सः गृहं प्रत्यागत्य स्वस्य सम्पतेः दानम् आरब्धवान् । अर्हेभ्यः धनकनकादिकं दत्वा सः गुरुनानकस्य परमभक्तः जातः ।