Sutra: | अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः- तत्र केचिदाहुः त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः स्नेहप्रसृतेषुषट्सु चतुर्गुणं द्रवमावाप्य चतुरश्चाक्षसमान् भेषजपिण्डानित्येषु स्नेहपाककल्पः एतत्तु न सम्यक् कस्मात् आगमसिद्धत्वात्॥ |