Sutra: | विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नुक्सुवर्णाक्षीरिचित्रककिणिहीकुशकाशतिल्वक्ककम्पिल्लकरम्यकपाटलापूगहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि। तत्र तिल्वकपूर्वाणां मूलानि, तिल्वकादीनां पाटलान्तानां त्वचः, कम्पिल्लकफरजः, पूगादीनामेरण्डान्तानांफलानि, पूतीकारग्वधयोः पत्राणि, शेषाणां क्षीराणीति॥ |