Sutra: | तत्र सर्वेषां सर्पाणां सामान्यत एव दषटलक्षणं वक्ष्यामः। किं कारणं? विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि
मुहूर्तमप्युपेक्षितमातुरमतिपातयति, न चावकाशोऽस्ति वाक्समूहमुपसर्तुं, प्रत्येकमपि दषटलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति,
तस्मात्त्रैविध्यमेव वक्ष्यामः; एतद्ध्यातुरहितमसंमोहकरं च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः॥ |