Sutra: | तद्यथा- १. मधुराम्ललवणः, २. मधुराम्लतिक्तः, ३. मधुराम्लतिक्तः, ४. मधुराम्लकषायः, ५. मधुरलवणकटुकः, ६. मधुरलवणतिक्तः, ७. मधुरलवणकषायः, ८, मधुरकटुकतिक्तः, ९. मधुरकटुककषायः, १०. मधुरतिक्तकषायः, एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; १. अम्ललवणकटुकः, २. अम्ललवणतिक्तः, ३. अम्ललवणकषायः. ४. अम्लकटुतिक्तः, ५. अम्लकटुकषायः, ६. अम्लतिक्तकषायः, एवमेषां षण्णामादावम्लः प्रयुज्यते; १. लवणकटुतिक्तः, २. लवणकटुकषायः, एवमेतेषांत्रयाणामादौ लवणः प्रयुज्यते; १. कटुतिक्तकषायः, एवमेकस्यादौ कटुकः प्रयुज्यते |