Sutra: | सहजानि दुष्टशोणितशुक्रनिमित्तानि; तेषां दोषत एव प्रसाधनं कर्तव्यं, विशेषतश्चैतानि दुर्दर्शनानि, परुषाणि पांसूनि दारुणान्यन्तर्मुखानि; तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निप्राणः परमलसश्च तथाघ्राणशिरोऽक्षिनासाश्रवणरोगी सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते॥ |