Index Search for 'घृतप्रस्थं' |
Sutra: | ब्राह्मीस्वरसप्रस्थद्वयेघृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृतयोर्द्वादश हरीतक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वास्वनुगुप्तं निदध्यात्। ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत जीर्णे पयः सर्पिरोदन इत्याहारः पूर्ववच्चात्र परीहारः एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रमन्ति अलक्ष्मीरपक्रामति पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवति एतदेवकुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति॥ |
Reference: | 1.1.28.6.0(पूर्व>सूत्र>विपरीताविपरितव्रणविज्ञानीयम्>सूत्र#6.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | विपरीताविपरितव्रणविज्ञानीयम् |
Search other sources: | search this word on other online resources
|