Sutra: | यदनिर्दिष्टं बुद्ध्याऽवगम्यते तदूह्यम् यथा- अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते- भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम्- अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति, चतुर्विधश्चाहारः प्रविरलः प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति। किञ्चान्यत्- अन्नेन भक्ष्यमवरुद्धं,घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधर्म्यात्॥ |