Sutra: | स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न संभावितः प्रशमयितुं क्रियाविपर्याद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति। तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय। तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं; सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिस्ताभिश्च संसर्प्यत इव, छिद्यत इव शस्त्रेण, भिद्यत इव दण्डेन, पीड्यत इव पाणिना,घट्यत इव चाङ्गुल्या, दह्यते पच्यत इव चाग्निक्षाराभ्यामोषचोषपरीदाहाश्च भवन्ति; वृद्धिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैत |