Sutra: | प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः। यथा- पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं- यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरुष इति; सखल्वेष कर्मपुरुषश्चिकित्साधिकृत इति॥ |