Sutra: | तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्नि? आहोस्वित् पित्तमेवाग्निरिति?। अत्रोच्यते- नखलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते, आग्नेयत्वात् पित्ते दहनपाचनादिष्वभिप्रवर्तमाने अग्निवदुपचारः क्रियतेऽन्तरग्निरिति; क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पश्यामो नखलु पित्तव्यतिरेकादन्योऽग्निरिति। |