Sutra: | वातयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातात् तीव्रा वेदना भवति, तदाऽत्यर्थं पीड्यमानो दन्तान्, नाभिं पीडयति, मेढ्रं प्रमृद्गाति, पायुं स्पृशति, विशर्धते, विदहति, वातमूत्रपुरीषाणि कृच्छ्रेण चाऽस्य मेहतो निःसरन्ति; अश्मरी चात्र श्यावा परुषा विषमाखरा कदम्बपुष्पवत्कण्टकाचिता भवति, तां वातिकीमिति विद्यात्॥ |