Sutra: | ततः कीलः प्रतिखुरो बीजकः परिघ इति। तत्रऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः, निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः; यो निर्गच्छत्येकशिरोभुजः स बीजकः; यस्तु परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ इति चतुर्विधो भवतीत्येके भाषन्ते; तत्तु न सम्यक्, कस्मात्? स यदा विगुणानिलप्रपीडितोऽपत्यमनेकधा प्रपद्यते तदा सङ्ख्या हीयते॥ |