Sutra: | दग्धेषु चार्शःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत। विशेषतस्तु वातार्शःसु सर्पींषि च वातहरदीपनीयसिद्धानि हिङ्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत्। पित्तार्शःसु पृथक्पर्ण्यादीनां कषायेण दीपनीयप्रतिवापं सर्पिः, शोणितार्शःसु मञ्जिष्ठामुरुङ्ग्यादीनां कषाये पाचयेत्, श्लेष्मार्शःसु सुरसादीनां कषाये।उपद्रवांश्च यथास्वमुपाचरेत्॥ |