Sutra: | अतः सर्वप्राणिनामयमाहारार्थं वर्गउपदिश्यते; तद्यथा- रक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमयववैणवैणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरकपिञ्जलवर्तीरवर्तिकामुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः चिल्लीवास्तुकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः, गव्यं घृतं, सैन्धवं दाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः। |