Sutra: | तत्र श्वेतमवेदनमुदकसदृशमुदकमेही मेहति; इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही;आविलं सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही, स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति॥ |