Sutra: | तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसु वक्ष्यते- तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्, भेदनान्येवं सर्वाणि, वृद्धिपत्रं मण्डलाग्रं च किञ्चिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यं, वृन्ताग्रे विस्रवणानि, विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजमात्रणां च त्रिकूर्चकेन विस्रावयते, तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं, कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याऽङ्गु्ष्ठविष्टब्धयाऽभिहन्यात्,आराकरपत्रैषण्यो मूले, शेषाणि तु यथायोगं गृह्णीयात्॥ |