Sutra: | तत्र आदिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः; तेऽपि द्विविधाः- मातृजाः पितृजाश्च। जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्त; तेऽपि द्विविधाः- रसकृताः, दौहृदापचारकृताश्च। दोषबलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च; तेऽपि द्विविधाः- आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च। पुनश्च द्विविधाः- शारीरा, मानसाश्च। त एतेआध्यात्मिकाः। |