Index Search for 'अस्थिगता' |
Sutra: | अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः। एवं प्रकुपिताः तांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति। ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्मविद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीन् जनयन्ति; बस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन्; मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन्; गुदगता भगन्दरार्शःप्रभृतीन्; वृषणगता वृद्धीः, ऊर्ध्वजत्रुगतास्तु ऊर्ध्वजान्; त्वङ्मांसशोणितस्थाः क्षुद्ररोगान् कुष्ठानि विसर्पांश्च; मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन्;अस्थिगता विद्रध्यनुशयीप्रभृती |
Reference: | 1.1.21.33.0(पूर्व>सूत्र>व्रणप्रश्नम्>सूत्र#33.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | व्रणप्रश्नम् |
Search other sources: | search this word on other online resources
|