Sutra: | तत्र व्यध्यसिरं पुरूषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने सक्थ्नोराकुञ्चितयोर्निवेश्य कूर्परे सन्धिद्वयस्योपरि हस्तावन्तर्गुढाङ्गुष्ठकृतमुष्टी मन्ययोः यन्त्रणशाकटं ग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरूषेण पश्चात्स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात्- दक्षिणहस्तेन सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्टयेति,असृक्स्रावणार्थं च यन्त्रं पृष्ठमध्ये पीडयेति, कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत; एष उत्तमाङ्गतानामन्तर्मुखवर्जानां सिराणां व्यधने यन्त्रणवि |