Sutra: | अत ऊर्ध्वमुदरोरसोर्मर्माणि व्याख्यास्यामः- तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिवद्धं गुदं नाम मर्म, तत्र सद्योमरणं;अल्पमांसशोणितोऽभ्यन्तरतः क्ट्यां मुत्राशयो बस्तिर्नाम, तत्रापि सद्योमरंअमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जावति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभावा नाभिर्नाम, तत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले, तत |