Sutra: | वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते। तत्र वमनस्याधो गतिरूर्ध्वं विरेचनस्येति पृथक् सामान्यमुभयोः सावशेषौषधत्वं जीर्णौषधत्वं हीनेदोषापहृतत्वं वातशूलम्।अयोगो अतियोगो जीवादानम् आध्मानं परिकर्तिका परिस्रावः प्रवाहिका हृदयोपसरणं विबन्धं अङ्गप्रग्रह इति॥ |