Sutra: | अत ऊर्ध्वमसाध्यान् वक्ष्यामः- मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तः पूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः;अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलास्राविणो वा मध्योन्नताः; केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः; वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः; पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः; त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः; (क्षीणमांसानां च) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः; सशब्दवातवाहिनश्च शिरःकण्ठस्थाः; क्षीणमांसान |