Sutra: | योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः, पदस्य पदयोः पदानां वाऽर्थः पदार्थः;अपरिमिताश्च पदार्थाः। यथा- स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा- ’वेदोत्पत्तिमध्यायं व्याख्यास्यामः’ इत्युक्ते सन्दिह्यते बुद्धिः- कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः ’विद विचारणे, विद्लृ लाभे’ इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति- आयुर्वेदोत्पत्तिमयं विवक्षुरित |