Index Search for 'अन्नशल्यानि' |
Sutra: | तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति। मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति। पक्वमभिद्यमानं भेदयेद्दारयेद्वा। भिन्नमनिरस्यमानं पीडनीयैः पीडयेत्। पाणिभिर्वा। अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत्। आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत्।अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः। विरेचनैः पक्वाशयगतानि। व्रणदोषाशयगतानि प्रक्षालनैः। वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम्। मा |
Reference: | 1.1.27.5.0(पूर्व>सूत्र>शल्यापनयनीयम्>सूत्र#5.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | शल्यापनयनीयम् |
Search other sources: | search this word on other online resources
|