Sutra: | तत्र, कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते; कश्चिदाभुग्नैकसक्थिरेकेन; कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः, कश्चिदुरःपार्श्वपृष्ठानामन्यतेन योनिद्वारं पिधायाऽवतिष्ठते;अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुनाः; कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः, कश्चेदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुमित्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन॥ |