Sutra: | तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती च स दुर्विद्धा प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं शोणितातिप्रवृत्तिर्वा साऽतिविद्धा, कुञ्चितायामप्येवं, कुण्ठशस्त्रप्रमथिता प्रथुलीभावमापन्ना पिच्चिता,अनासादिता पुनःपुनरन्तयोश्च बहुशः शस्त्राभिहिता कुट्टिता, शीतभयमूर्च्छाभिरप्रवृत्तशोणिताऽप्रस्रुता, तीक्ष्णमहामुखशस्त्रविद्धाऽत्युदीर्णा, अल्परक्तस्राविण्यन्तेविद्धा, क्षीणशोणितस्यानिलपूर्णा परिशु्ष्का चतुर्भागावसादिता किञ्चित्प्रवृत्तशोणिता कूणिता, दुःस्थानबन्धनाद्वेपमानायाः शोणित |