Sutra: | अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु; तत्रापि विशेषतो लोहष्वेव, विशसनार्थोपपन्नत्वाल्लोहस्य; लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः। स च द्विविधः- कर्णी, श्लक्ष्णश्च। प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः, व्यालमृगपक्षिवक्त्रसदृशाश्च। |