Index Search for 'अद्रुतमविलम्बतमविशङ्कितमननुनासिकं' |
Sutra: | अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानम्- अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोकाः भूयः क्रमेणानुसंधेयाः; एवमेकैकशो घटयेदात्मना चानुपठेत्;अद्रुतमविलम्बतमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्ण मक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतंनात्युच्चैर्नातिनीचैश्च स्वरैः पठेत्। न चान्तरेण कश्चिद्व्रजेत् तयारधीयानयोः॥ |
Reference: | 1.1.3.54.0(पूर्व>सूत्र>अध्ययनसंप्रदानीयम्>सूत्र#54.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | अध्ययनसंप्रदानीयम् |
Search other sources: | search this word on other online resources
|