Sutra: | अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत्, अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात,अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति; दृढां वा वृक्ष शाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत्। |