Sutra: | पलकुडवादीनामतो मानं तु व्याख्यास्यामः- तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः ते षोडश सुवर्णम्अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं तान्यर्धतृतीयानि कर्षः ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते तुला पुनः पलशतं ताः पुनर्विंशतिर्भारः शुष्काणामिदं मानम् आर्द्रद्रवाणां च द्विगुणमिति॥ |