Sutra: | एतद्ध्यङ्गम् प्रथम, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च। श्रूयतेहि यथा- ’रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः- भगवन्तौ! नः श्रेष्ठतमौ यवां भविष्यथः, भवद्भ्यां यज्ञस्यशिरः सन्धातव्यमिति। तावूचतुरेवमस्त्विति।अथतयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन्। ताभ्यां यज्ञस्य शिरः संहितम्’ इति॥ |