Sutra: | अथ जलौककोवसेवकसाध्यव्याधितमुपवेश्य सवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात्। गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभि रोगं ग्राहयेत्। श्लक्ष्णशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै क्षीणबिन्दुं शोणितबिन्दुं वा दद्यात्, शस्त्रपदानि वा कुर्वीत्; यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत्॥ |