Sutra: | अथ निर्विषाः- कपिलाः, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति। तत्र मनः शिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृ्ष्ठे स्निग्धा मुद्गवर्णा कपिला; किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी; मूषिकाकृतिवर्णानिष्टगन्धा च मूषिका; मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी; स्निग्धा पद्म पत्रवर्णाऽष्टादशाङ्गुल प्रमाणा सावरिका, सा च पश्वर्थे; इत्येता अविषा व्याख्याताः॥ |