Sutra: | अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानम्-अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोकाः भूयः क्रमेणानुसंधेयाः; एवमेकैकशो घटयेदात्मना चानुपठेत्; अद्रुतमविलम्बतमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्ण मक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतंनात्युच्चैर्नातिनीचैश्च स्वरैः पठेत्। न चान्तरेण कश्चिद्व्रजेत् तयारधीयानयोः॥ |