Sutra: | नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्;अत्र हि योनियत्कृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाऽहिंसता, तस्मादधिपतिमापृच्छय परं च यत्नमास्थायोपक्रमेत्॥ |