Sutra: | अत्र केचिदाहुराचार्याः- प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति; तत्तु न सम्यक्, सौम्याग्नेयत्वाज्जगतः। सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयाग्नेयेषु; एवमव्यान्नगुणानि भवन्ति। सौम्यन्यौषधानि सौम्यष्वृतुषु गृहीतानि सोमगुणभूयिष्ठाभ्यां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते। एतेन शेषं व्याख्यातम्॥ |