Sutra: | अपरिशुद्धामाशयस्योत्क्लिष्टश्लेष्मणः सशेषान्नस्य वाऽहृद्यमतिप्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति। तत्रेप्सितानवाप्तिर्दोषोक्लेशश्च तत्राशुद्धामाशयमुल्बणश्लेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत् आमान्वये त्वात्मवत् संविधानम् अहृद्येऽतिप्रभूते च हृद्यं प्रमाणयुक्तं चअत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत्। ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्विरेचयेत्॥ |